|
|
 |
 |
|
|
१३ अनुशासनपर्व.jpg)
॥ श्रीः ॥
13.72. अध्यायः 072
अथ दानधर्मपर्व ॥ 1 ॥
Mahabharata - Anushaasana Parva - Chapter Topics
भीष्मेण युधिष्ठिरम्प्रति पात्रलक्षणादिकथनम्॥ 1 ॥

Mahabharata - Anushaasana Parva - Chapter Text
युधिष्ठिर उवाच।
अपूर्वं वा भवेत्पात्रमथवाऽपि चिरोषितम्।
दूरादभ्यागतं वाऽपि किं पात्रं स्यात्पितामह॥ 13-72-1(84337)
भीष्म उवाच। 13-72-2x(7011)
क्रिया भवति केषांचिदुपांशुव्रतमुत्तमम्।
यो नो याचेत यत्किंचित्सर्वं दद्याम इत्यपि॥ 13-72-2(84338)
अपीडयन्भृत्यवर्गमित्येवमनुशुश्रुम।
पीडयन्भृत्यवर्गं हि आत्मानमपकर्षति॥ 13-72-3(84339)
अपूर्वं चापि यत्पात्रं यच्चापि स्याच्चिरोषितम्।
दूरादभ्यागतं चापि तत्पात्रं न विदुर्बुधाः॥ 13-72-4(84340)
युधिष्ठिर उवाच। 13-72-5x(7012)
अपीडया च भूतानां धर्मस्याहिंसया तथा।
पात्रं विद्यामतत्त्वेन यस्मै दत्तं न सन्तपेत्॥ 13-72-5(84341)
भीष्म उवाच। 13-72-6x(7013)
ऋत्विक्पुरोहिताचार्याः शिष्यसम्बन्धिबान्धवाः।
सर्वे पूज्याश्च मान्याश्च श्रुतवन्तोऽनसूयकाः॥ 13-72-6(84342)
अतोऽन्यथा वर्तमानाः सर्वे नार्हन्ति सत्क्रियाम्।
तस्माद्गुणैः परीक्षेत पुरुषान्प्रणिधाय वै॥ 13-72-7(84343)
अक्रोधः सत्यवचनमहिंसा दम आर्जवम्।
अद्रोहोऽनभिमानश्च ह्रीस्तितिक्षा दमः शमः॥ 13-72-8(84344)
यस्मिन्नोतानि दृश्यन्ते न चाकार्याणि भारत।
स्वभावतो निविष्टानि तत्पात्रं मानमर्हति॥ 13-72-9(84345)
तथा चिरोषितं चापि सम्प्रत्यागतमेव च।
अपूर्वं चैव पूर्वं च तत्पात्रं मानमर्हति॥ 13-72-10(84346)
अप्रामाण्यं च वेदानां शास्त्राणां चाभिलङ्घनम्।
अव्यवस्था च सर्वत्र एतन्नाशनमात्मनः॥ 13-72-11(84347)
भवेत्पण्डितमानी यो ब्राह्मणो वेदनिन्दकः।
आन्वीक्षिकीं तर्कविद्यामनुरक्तो निरर्थिकां॥ 13-72-12(84348)
हेतुवादान्बुवन्सत्सु विजेताऽहेतुवादकः।
आक्रोष्टा चातिवक्ता च ब्राह्मणानां सदैवहि॥ 13-72-13(84349)
सर्वाभिशङ्की मूढश्च बालः कटुकवागपि।
बोद्धव्यस्तादृशस्तात नरं श्वानं हि तं विदुः॥ 13-72-14(84350)
यथा श्वा भषितुं चैव हन्तु चैवावसज्जते।
एवं सम्भाषणार्थाय सर्वशास्त्रवधाय च।
`अल्पश्रुताः कुतर्काश्च दृष्टाः सृष्टाः कुपण्डिताः॥ 13-72-15(84351)
श्रुतिस्मृती चेतिहासपुराणारण्यवेदिनः।
अनुरुन्ध्याद्बहुज्ञांश्च सारज्ञाश्चैव पण्डिताः॥' 13-72-16(84352)
लोकयात्रा च द्रष्टव्या धर्मश्चात्महितानि च।
एवं नरो वर्तमानः शाश्वतीर्वर्धते समाः॥ 13-72-17(84353)
ऋणमुन्मुच्य देवानामृषीणां च तथैव च।
पितॄणामथ विप्राणामतिथीनां च पञ्चमम्॥ 13-72-18(84354)
पर्यायेण विमुक्तो यः सुनिर्णिक्तेन कर्मणा।
एवं गृहस्थः कर्माणि कुर्वन्धर्मानन हीयते॥ ॥ 13-72-19(84355)
इति श्रीमन्महाभारते अनुशासनपर्वणि दानधर्मपर्वणि द्विसप्ततितमोऽध्यायः॥ 72 ॥
Mahabharata - Anushaasana Parva - Chapter Footnotes
7-72-2 कश्चिद्यज्ञार्थं कश्चित् गुरुदक्षिणार्थं कश्चित्कुटुम्बभरणार्थमिति एवंरूपा क्रिया केषांचित्पात्रत्वे प्रधानं भवति केषांचिदुषांशुव्रतं मौनं पारिव्राज्यमिति। दद्यामः ददाम इत्येव वक्तव्यं नत्वेतेषु कञ्चित्प्रत्याचक्षीतेत्यर्थः॥ 7-72-5 दत्तं प्रदेयवस्त्वभिमानिनी देवता न सन्तपेत्। विप्रे वेदविवर्जिते। दीयमानं रुदत्यन्नमिति स्मृतेः। अतः कस्तादृश इति प्रश्नः॥ 7-72-6 मुख्यं पात्रं विशेषेण श्रुतवन्तोऽनसूयका इति॥ 7-72-10 तथा अक्रोधादिगुणविशिष्टम्॥ 7-72-11 अपात्रतावीजमाह अप्रामाण्यमिति। आत्मनः पात्रताया इति शेषः॥ 7-72-12 निरर्थिकां श्रुतिविरोधित्वेन मोक्षानुपयोगिनीम्॥ 7-72-13 अहेतुवादकः शास्त्रोक्तहेतुवादविरोधात्॥ 7-72-14 बोद्धव्यः अस्पृश्यत्वेनेति शेषः॥ 7-72-17 धर्मश्चात्महिताय चेति थ.ध.पाठः॥ 7-72-18 देवानामृणं यज्ञेन ऋषीणां वेदाधिगमेन पितॄणां प्रजोत्पादनेन विप्राणां दानमानेनाऽतिथीनां सम्यगातिथ्येन चोन्मुच्याऽपाकृत्य कर्माणि कुर्यन्नित्युत्तरेणान्वयः॥


|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|